Amnaya-Sutra (1 to 4)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

श्रीश्रीगोद्रुमचन्द्राय नमः ।

श्रीमदाम्नायसूत्रम्

सम्बन्धतत्त्वनिरूपणम्

शक्तिमत्तत्त्वप्रकरणम् ।

अथात आम्नायसूत्रं प्रवक्ष्यमः ॥१॥

ओं नमः सच्चिदानन्द मूर्तये ॥

ओं तत्सत॥ हरिः ओम् ॥

नत्वा श्रीकृष्णचैतन्यं जगदाचार्यविग्रहम् ।

केन भक्तिविनोदेन वैष्णवानां प्रसादतः ॥

प्रमाणैरष्टभिः षड्भिर्लिङ्गैर्वेदार्थनिर्णयम् ।

अभिधावृत्तिमाश्रित्य शब्दानां च विशेषतः ॥

त्रिंशोत्तरशतं सूत्रं रचितं महदाज्ञया ।

पठन्तु वैष्णवाः सर्वे चैतन्यपदसेविन ॥ इति ॥१॥

तत्त्वमेकमेवाद्वितीयम् ॥२॥

छान्दोग्ये (६.२.२) — सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।

बृहदारण्यके –

पूर्णमदः पूर्णमिदं पूर्णत्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

श्रीमद्भागवते (२.९.३२)–

अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।

पश्चडहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥

श्रीचैतन्यचरितामृते (२.२०.१५२)

कृष्णेर स्वरूपविचार शुन सनातन ।

अद्वयज्ञान तत्त्व व्रजे व्रजेन्द्रनन्दन ॥ २ ॥

 —o)0(o—

नित्यमचिन्त्यशक्तिकम् ॥३॥

श्वेताश्वतरे (?) –

विचित्रशक्तिः पुरुषः पुराणो

चान्येषां शक्तयस्तादृशाः स्युः ।

एको वशी सर्वभूतान्तरात्मा

सर्वान्देवानेक एवानुविष्टः ॥

हयशीर्षपञ्चरात्रे ।

परमात्मा हरिदेवस्तच्छक्तिः श्रीरिहोदिता ।

श्रीदेवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ॥

श्री जीव गोस्वामी ।

सर्वेषां भावानां पावकस्योष्णतावदचिन्त्यज्ञानगोचराः शक्तयः सन्त्येव । ब्रह्मणस्ता स्वभावभूताः स्वरूपादभिन्नाः शक्तयः ॥ ३ ॥

 —o)0(o—

नित्यं सविशेषम् ॥४॥

श्वेताश्वतरे (६.६) ।

स वृक्षकालाकृतिभिः परोऽन्यो

यस्मात्प्रपञ्चः परिवर्ततेऽयम् ।

धर्मावहं पापनुदं भगेशं

ज्ञात्वात्मस्थममृतं विश्वधाम ॥

श्रीविष्णुपुराणे (६.५.७९) ।

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥

श्रीरूपगोस्वामी (भक्तिरसामृतसिन्ध्२.१.३८) ।

सदा स्वरूपसंप्राप्तः सर्वज्ञो नित्यनूतनः ।

सच्चिदानन्दसान्द्राङ्गः सर्वसिद्धिनिषेवितः ॥ ४ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."

You can post your comment: