Amnaya-Sutra (18 to 21)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

भक्तौ पूर्णपुरुषो भगवान॥१८॥

श्वेताश्वतरे (३.८) ।

वेदाहमेतं पुरुषं महान्तं

आदित्यवर्णं तमसः परस्तात।

तमेव विदित्वातिमृत्युमेति

नान्यः पन्था विद्यतेऽयनाय ॥

गर्गसंहितायाम् ।

पूर्णः पूराणः पुरुषोत्तमोत्तमः

परात्परो यः पुरुषः परमेश्वरः ।

स्वयं सदानन्दमयं कृपाकरं

गुणाकरं तं शरणं व्रजाम्यहम् ॥

श्रीनिम्बादित्यस्वामी ।

स्वभावतोऽपास्तसमस्तदोषं

अशेषकल्याणगुणैकराशिम् ।

व्यूहाङ्गिनं ब्रह्मपरं वरेण्यं

ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥१८॥

—o)0(o—
 

औदार्यमाधुर्यैश्वर्यभेदेन

तत्स्वरूपमपि त्रिविधम् ॥१९॥

श्वेताश्वतरे (६.७) ।

तमीश्वराणां परमं महेश्वरं

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्

विदाम देवं भुवनेशमीड्यम् ॥

तत्र च (३.१२) ।

महान्प्रभुर्वै पुरुषः सत्त्वस्यैषः प्रवर्तकः ।

सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥

गोपालोपनिषदि ।

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।

द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥

मनुः ।

प्रशासितारं सर्वेषामनीयांसमनोरपि ।

रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥

भागवते (२.२.१७) ।

न यत्र कालोऽनिमिषां परः प्रभु ॥

नारदपञ्चरात्रे ।

मणिर्यथा विभागेन नीलपीतादिभिर्युतः ।

रूपभेदमवाप्नोति ध्यानभेदात्तथाच्युतः ॥

श्रीचैतन्यचरितामृते (१.२.२८,२२) ।

सेइ नारायण कृष्णेर स्वरूप अभेद ।

सेइ त गोविन्द साक्षाच्चैतन्य गोसाङि ।

जीव निस्तारिते ऐछे दयालु आर नाइ ॥

श्रीचैतन्यचन्द्रोदयनाटके (२.३३) श्रीमदद्वैतप्रभुः ।

नवकुवलयदाम श्यामलो वामजङ्घा

हिततदितरजङ्घः कोऽपि दीव्यःकिशोरः ।

त्वमिव स स इदत्वं गोचरो नैव भेदः

कथय रूप्यमहो मे जाग्रतः स्वप्न एषः ॥ १९ ॥

—o)0(o—
 

स्वेन धम्नात्मशक्त्या च सोऽप्यवतरति ॥२०॥

इति श्रीआम्नायसूत्रे सम्बन्धतत्त्वनिरूपणे

स्वरूपप्रकरणं समाप्तम् ।

चैतन्यौपनिषदि ।

गौरः सर्वात्मा महापुरुषो महात्मा महायोगी त्रिगुणातीतसत्त्वरूपो भक्तिं लोके काश्यति इति ॥

तलवकारे । केनोपनिषदि (३.२) ।

तद्वैषां विजञो तेभ्यो प्रादुर्बभूव ॥

तस्मात्तरोदधे कालिकापुरानो देवी स्तुतौ ।

तस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः ।

न विवृण्णन्ति रूपाणि वर्णनीयः कथं स मे ॥

श्रीगोविन्ददासस्य प्रार्थना ।

हरि हरि बड दुःख रहल मरमे ।

गौरकीर्तन्रसे जगजन मातल, वञ्चित मोहेन अधमे ॥

व्रजेन्द्रनन्दन जेइ शचीसुत भेल सेइ, बलराम हैल निताइ ।

दीन हीन जत छिल हरिनामे उद्धार्रिल, तार साक्षी जगाई माधाई ॥

हेन प्रभु श्रीचरणे रति ना जन्मिल केने, ना भजिलां हेन अवतार ।

दारुण विषय विषे सतत मजिया रैनु, मुखे दिनु ज्वलन्त अङ्गार ॥

एमन दयालु दाता आर ना पाइब कोथ, पाइया हेलाय हाराइनु ।

गोविन्द दासिया कय अनले पुडिनु नय, सहजेइ आत्मघाति हैनु ॥ २० ॥

इति स्वरूपप्रकरणभाष्यं समाप्तम् ।

 —o)0(o—

धामप्रकरणं

तत्तत्स्वरूपवैभवं धामनिचयम् ॥२१॥

मुण्डके (३.१.५) ।

सत्येन लभ्यस्तपसा ह्येष आत्मा

सम्यक्ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तः शरिरे ज्योतिर्मयो हि शुभ्रो

यं पश्यन्ति यतयः क्षीणदोषाः ॥

ब्रह्माण्डपुराणे ।

सिद्धलोकस्तु तमसः पारे यत्र वसन्ति हि ।

सिद्धा ब्रह्मसुखे मग्ना दैत्याश्च हरिणा हताः ॥

श्रीचैतन्यचरितामृते (१.४.६४) ।

सन्धिनीर अंश शुद्धसत्त्व नाम ।

भगवानेर सत्ता हय ताहाते विश्राम ॥ ॥ २१ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."

You can post your comment: