Amnaya-Sutra (30 to 33)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

जीवतत्त्वप्रकरणम्

परात्मसूर्यकिरणपरमाणवो ॥३०॥

बृहदारण्यके (६.२०) ।

यथाग्ने क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वाणि भूतानि व्युच्चरन्ति ।

श्वेताश्वतरे (५.९) ।

बालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्ताय कल्प्यते ॥

गीतायां (७.४५) ।

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत॥

श्रीचैतन्यचरितामृते—

जीवेर स्वरूप हय कृष्णेर नित्य दास ।

कृष्णेर तटस्थ शक्ति भेदाभेदप्रकाश ॥

सूर्यांशु किरण येन अग्नि ज्वाला चय ॥ (२.२०.१०८१०९) ॥ ३० ॥

—o)0(o—
 

उभयवैभवयोग्यास्तटस्थधर्मत॥३१॥

बृहदारण्यके—

अस्य वा एतस्य पुरूषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्धं तृतीयं स्वम् ॥ (४.३.९)

भागवते—

तस्माद्भवद्भिः कर्तव्यं

कर्मणां त्रिगुणात्मानाम् ।

बीजनिर्हरणं योगः

प्रवाहपरमो धियः ॥ (७.७.२८)

श्रीनिम्बादित्यस्वामी ।

अनादिमायापरिमुक्तरूपं

त्वेनं विदुर्वै भगवन्प्रसादात।

बद्धं च मुक्तं च किल बद्धमुक्तं

प्रभेदबाहुल्यं तथापि बोध्यम् ॥ ३१ ॥

—o)0(o—
 

स्वरूपतः शुद्धचिन्मयाः ॥३२॥

बृहदारण्यके (४.३.११) ।

स्वप्नेन शरीरमपि प्रहत्यासुप्तः सुप्तानभिचाकशाति शुक्रमादाय पुनरेति स्थानं हिरण्मयं पुरूष एक हंसः ॥

भागवते (७.७.१९) ।

आत्मा नित्योऽव्यय शुद्ध एकः क्षेत्रज्ञ आश्रयः ।

अविक्रियः स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतः ॥

श्रीशङ्कराचार्यस्वामी ।

अतः स्थितं चैतत्न्यायतो नित्यं स्वरूपं चैतन्य ज्योतिष्टमात्मनः ॥ ३२ ॥

—o)0(o—
 

अस्मदर्थाः ॥३३॥

श्वेताश्वतरे ।

अङ्गुष्ठमात्रो रवितुल्यरूपो

सङ्कल्पाहङ्कारसमन्वितो यः ।

बुद्धेर्गुणेनात्मगुणेन चैव

आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ (५.८)

पाद्म उत्तरखण्डे ।

अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः ।

अदाह्योऽच्छेद्य अक्लेद्य अशोष्याक्षय एव च ।

एवमादिगुणैर्युक्तः शेषभूतः परस्य वै ॥

श्रीचैतन्यचरितामृते (२.२२.९१०) ।

विभिन्नाम्श जीव ताञ्र शक्तिते गणन ॥

सेइ विभिन्नांश जीव दुइ त प्रकार ।

एक नित्य मुक्त एक नित्य संसार ॥ ॥ ३३ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."

You can post your comment: