Amnaya-Sutra (42 to 45)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

४२ । अविद्यया कर्मदशा ।

कठे—

आशा प्रतीक्षे सङ्गतं सूनृतां

चेष्टापूर्ते पुत्रपशुंश्च सर्वान।

एतद्वृक्ते पुरूसस्याल्पमेधसो

यस्यान्नश्नन्वसति ब्रह्मनो गृते ॥ (१.१.८)

अत्रिस्मृतौ—

इष्टापूर्तं च कर्तव्यं ब्राह्मणेनैव यत्नतः ।

इष्टेन लभ्यते स्वर्गं पूर्ते मोक्ष विधायते ।

एतद्दशायां विंशधर्मशास्त्रविधयः ॥

वेदान्तस्यमन्तके—

बीजाङ्कुरादि वदनादि सिद्धं कर्मा तत्खलु अशुभं शुभं चेति द्विभेदम् । वेदेन निषिद्धनरकस्यानिष्टसाधनं ब्रह्मणहननाद्यशुभम् । तेन विहितं काम्यादि तु शुभम् । तत्र स्वर्गादीष्टसाधनं ज्योतिष्टोमादिकाम्यमकृते प्रत्यवाय जनकं सन्ध्योपासनोग्निहोत्रादि नित्यम् । पुत्रजन्माद्यनु बन्धिजातेष्ट्यादि नैमित्तिकं दुरितक्षयकरं चान्द्रायणादि प्रायश्चित्तमिति शुभं बहुविधं (६.१) ॥ ४२ ॥

—o)0(o—
 

विद्यया न्यासदशा ॥४३॥

बृहदारण्यके—

स होवाच मैत्रेयी येनाहं नामृतास्यां किमहं तेन कुर्याम् ॥

याज्ञवल्क्यस्मृतौ—

सर्वभूतहितः सान्तस्त्रिदण्डी स कमण्डलुः ।

एकवायः परिव्रज्यभिक्षार्थी ग्राममाश्रयेत॥

श्री शङ्कराचार्यः—

तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनात्मविषयं स्वाभाविककर्मविज्ञानं निवर्तयन्तः शोकमोहादि संसारधर्मचिच्छक्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्ति ॥ ४३ ॥

—o)0(o—
 

औदासीन्यान्निर्द्वन्द्वदशा ॥४४॥

तलवकारे । केन उपनिषदि—

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।

यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ (२.२)

गीतायाम्—

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित।

पश्यन्शृण्वन्स्पृशज्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ (५.८९)

भागवते—

आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान॥ (११.११.३२)

सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥ (११.१८.२८)

चैतन्यभागवते श्रीमन्नित्यानन्दस्य औदासीन्यविषये ।

अहर्निश भावावेशे परम उद्दाम ।

सर्व नदीयाय बुले ज्योतिर्मय धाम ॥

किवा योगी नित्यानन्द किवा तत्त्वज्ञानी ।

यार येमत इच्छा ना बलये केनि ॥ ४४ ॥

—o)0(o—
 

भक्तौ सर्वत्रात्मभावदशा ॥४५॥

ईशावास्ये—

ईशावास्यमिदं सर्वं यत्किं च जगत्यां जगत।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्वित्धनम् ॥ (१)

कुर्वन्नेवेह्कर्माणि जिजिविषेच्छतां समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ (२)

भागवते—

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत।

योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ (११.२०.३२)

सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ॥ (११.२०.३३)

श्री गौडपूर्णानन्दः—

अयं प्रपञ्चः खलु सत्यभूतो

मिथ्या न च श्रीपतिसङ्ग्रहेण ।

शुद्धत्वमेतस्य निवेदनेन

स्वर्णं यथा राजति धातुजातम् ॥

वैराग्यभोगाविति भक्तिमध्ये

स्थितावुदासीनतया खलु द्वौ ।

महाप्रसादग्रहणं तु नित्यं

भोगः कदाचित्खलु भक्ति एव ॥ ४५ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."


Tell your friends about this spiritual site: