Amnaya-Sutra (46 to 50)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

विश्वौकसं तु प्रायशः कर्मदशापन्नाः ॥४६॥

कठे—

स त्वं प्रियान्प्रियरूपंश्च

कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।

नैतां सृकां वित्तमयीमवाप्तो

यस्यां मज्जन्ति बहवो मनुष्याः ॥ (१.२.३)

भागवते—

लोके व्यवायामिषमद्यसेवा

नित्या हि जन्तोर्न हि तत्र चोदना ।

व्यवस्थितिस्तेषु विवाहयज्ञ

सुराग्रहैराप्त निवृत्तिरिष्टा ॥ (११.५.११)

श्रीचैतन्यचरितामृते—

धर्मचारीमध्ये बहुत कर्मनिष्ठ ।

कोटीकर्मनिष्ठमध्ये एक ज्ञानी श्रेष्ठ ॥ (२.१९.१४७) ॥४६॥

* * *

तेषां कदाचित्संसारगतिविवेकः ॥४७॥

श्वेताश्वतरे—

किं कारणं ब्रह्म कुतस्म जाताः

जीवाम केन क्व च सम्प्रतिष्ठिताः ।

अधिष्ठिताः केन सुखेतरेषु

वर्तामहे ब्रह्मविदो व्यवस्याम् ॥ (१.१)

ब्रह्मवैवर्ते—

यावत्पापैस्तु मलिनं हृदयं तावदेव हि ।

न शास्त्रे सत्यबुद्धिः स्यात्सम्बन्धः सद्गुरौ तथा ॥

अनेकजन्मजनितपुण्यराशिफलं महत।

सत्सङ्गाच्छास्त्रश्रवणादेव प्रेमादि जायते ॥

श्री सनातन गोस्वामी प्रश्त श्रि चैतन्यचरितामृते ।

के आमि केन आमाय जारे तापत्रय ।

इहा नाहि जानि केमने हित हय ॥ (२.२०.१०२) ॥ ४७ ॥

—o)0(o—

मोचनोपायजिज्ञासा च ॥४८॥

मुण्डके—

परीक्ष्य लोकान्कर्मचितान्ब्रह्मणो

निर्वेदमायान्नस्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्

समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ (१.२.१२)

भागवते—

दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान।

अजिज्ञासितमद्धर्मो गुरुं मुनिमुपव्रजेत॥ (११.१८.३८)

श्रीनिम्बादित्यस्वामि—

उपस्यरूपं तदुपास्यकस्य च

कृपालवो भक्तिवतस्ततः परम् ।

विरोधिनोरूपमथैतदाप्तये

ज्ञेया इमेऽर्था अपि पञ्च साधुभिः ॥ ४८ ॥

—o)0(o—

असत्सङ्ग त्यागेन तत्फलोदयः ॥४९॥

तैत्तिरीये—

यान्यस्माकं सूचरितानि तानि त्वयोपास्यानि नो इतरानि ॥

कठे—

नैषा तर्केन मतिरापनेया

प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ (१.२.९)

भागवते—

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।

सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ (३.३१.३४)

हरिभक्तिसुधोदये—

यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः ।

सकूलद्वैततो धीमान्स्वयूथ्यानेव संश्रयेत॥

श्रीचैतन्यचरितामृते—

असत्सङ्ग त्याग एइ वैष्णव आचार ।

स्त्रीसङ्गि एक असाधु कृष्णाभक्त आर ॥ (२.२२.८७) ॥ ४९ ॥

—o)0(o—

सत्सङ्गाच्छास्त्राभिदेयजिज्ञासा ॥५०॥

इति जीवगति प्रकरणं समाप्तम् ।

इति श्रीमदाम्नायसूत्रे सम्बन्धतत्त्वं सम्पूर्णम् ॥

केनौपनिषदि—

उपनिषदं भो ब्रूहि ॥ (३.७)

भागवते—

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघा ।

संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गःसेवधिर्नृणाम् ॥ (११.२.२९३०)

श्रीचैतन्यचरितामृते—

भ्रमिते भ्रमिते यदि साधु वैद्य पाय ।

तार उपदेश मन्त्रे पिशाची पलाय ॥ (२.२२.१४) ॥ ५० ॥

इति सम्बन्धतत्त्व भाष्यं सम्पूर्णम् । श्री कृष्ण चैतन्यार्पणमस्तु ॥

ओं हरिः ॥ शान्तिः शान्तिः शान्तिः ॥ हरिः ओम् ॥

To be continued.

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."

You can post your comment: