Amnaya-Sutra (5 to 8)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

नित्यं निर्विशेषं च ॥ ५ ॥

कठे (१.३.१५) ।

अशब्दमस्पर्शमरूपमव्ययं

तथाऽरसं नित्यमगन्धवच्च यत।

अनाद्यनन्तं महतः परं ध्रुवं

निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥

हरिवंशे (२.११४.१०) ।

ब्रह्मतेजोमयं दिव्यं महद्यद्दृष्टवानसि ।

अहं स भरत श्रेष्ठमभेजस्तत्सनातनम् ॥

श्रीचैतन्यचरितामृते (२.६.१४१) ।

निर्विशेष तारे कहे येइ स्रुतिगन ।

प्राकृत निषेधि करे अप्राकृत स्थापन ॥ ५ ॥

 —o)0(o—

विरुद्धधर्मसामञ्जस्यं तदचिन्त्यशक्तित्वात॥ ६ ॥

श्वेताश्वतरे (३.१९) ।

अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति

वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥

कौर्मे ।

ऐश्वर्ययोगाद्भगवान्विरुद्धार्थोऽभिधीयते ।

तथापि दोषाः परम नैवाहार्याः कदाचनः ॥

श्रीजयतीर्थमुनिः ।

न केवलं सामान्यतो विचित्रशक्तिरीश्वरः किं तु सर्वविषये सर्वदा विद्यमानविचित्रशक्तिः ॥

श्री जीवः (भगवत्सन्दर्भ ११९) ।

धर्मत्व एव धर्मित्वं, निर्भेदत्व एव नानाभेदवत्त्वम्, अपरूपित्व एव रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यमेवेत्यादिपरस्परविरुद्धानन्तगुणनिधिः ॥ ६ ॥

 —o)0(o—

सविशेषत्वमेव बलवदितरानुपलब्धे ॥७॥

ऋग्वेदसंहितायां (१.२२.२०)।

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततं तद्विप्रासो विपन्यवो जागृवांसः समिंधते ।

विष्णोर्यत्परमं पदम् ॥

महावराहे ।

सर्वे नित्याः शाश्वताश्च देहाद्(ओर्देवाद्)  यस्य परात्मनः ।

हेयोपादेयरहिताः नैव प्रकृतिजाः क्वचित॥

परमानन्दसन्दोहज्ञनमात्रा च सर्वतः ।

देहदेहिभिदा चात्र नेश्वरे विद्यते क्वचित॥

श्री जीवः (भगवत्सन्दर्भ ९९) ।

अखण्डतत्त्वरूपो भगवान्सामान्याकारस्य स्फुर्तिलक्षणत्वेन स्वप्रभाकारस्य ब्रह्मणोऽप्याश्रय इति युक्तमेव ॥ ७ ॥

 —o)0(o—

स्वरूपतद्रूपवैभवजीवप्रधानरूपेण तच्चतुर्धा ॥८॥

श्वेताश्वतरे (६.१६) ।

स विश्वकृद्विश्वविदात्मयोनिः

कालकारो गुणी सर्वविद्यः ।

प्रधानक्षेत्रज्ञपतिर्गुणेशः

संसारमोक्षस्थितिबन्धहेतुः ॥

भगवते (१.७.४५) ।

भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले ।

अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥

यया सम्मोहितो जीव आत्मनं त्रिगुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥

श्री जीवः (भगवत्सन्दर्भ १४) ।

एकमेवं परमं तत्त्वं स्वाभाविकाचिन्त्यशक्त्या सर्वदैव स्वरूपतद्रूपवैभवजीवप्रधानरूपेण चतुर्धावतिष्ठते ॥ ८ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."


Tell your friends about this spiritual site: