Amnaya-Sutra (26 to 29)
(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: Amnaya-Sutra (22 to 25))
प्रधानादिपदवाच्या ॥२६॥
बृहदारण्यके (४.४.१०) ।
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥
श्वेताश्वतरे (१.१०) ।
क्षरं प्रधानम् ॥ इति ।
महासंहितायाम् ।
श्री भू दुर्गेति याभिन्ना जीवमाया महात्मनः ।
आत्ममाया तदिच्छास्याद्गुणमाया जडात्मिका ॥
श्रीनिम्बादित्यस्वामी ।
माया प्रधानादिपदप्रवाच्या शुक्लादि भेदा समेपि तत्र ॥
श्री जीवः (भगवत्सन्दर्भ १६) ।
तस्याप्याभासाख्यत्वमपि ध्वन्तिम् ॥ २६ ॥
—o)0(o—
गुणामिका स्थुललिङ्गाभ्यां चिदावरणी च ॥२७॥
श्वेताश्वतरे (१.४) ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥
मार्कण्डेयपुराणे ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।
महामायां हरेश्चैतत्तया संमोह्यते जगत॥
गीतायां (७.१४) ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥
श्री जीवः ।
यद्यपीयं बहिरङ्गा तथाप्यस्यान्तटस्थशक्तिमयमपि जीवमावरितुं सामर्थ्यमस्तीति । इयमपि जीवज्ञानमावृणोति ॥ २७ ॥
—o)0(o—
तस्मिन्देशकालकर्मादिजडव्यापार विशेषाः ॥२८॥
श्वेताश्वतरे ।
छन्दांसि यज्ञा क्रतवो व्रतानपि
भूतं भव्यं यच्च वेदो वदन्ति ।
यस्मानू मायी सृजते विश्वमेतत्
तस्मिंश्चान्यो मायया सन्निरूद्धम् ॥ (४.९)
भागवते (३.५.२५) ।
सा वा एतस्य सन्द्रष्टुः शक्तिः सदसदात्मका ।
माया नाम सहाभाग ययेदं निर्ममे विभुः ॥
श्रीबलदेवविद्याभूषणः ।
प्रकृतिः सत्त्वादिगुणसाम्यावस्था तमोमायादिशब्दवाच्या कालं तु निमित्तभूतो जडद्रव्यविशेषः कर्म तु जडमदृष्टादिव्यपदेश्यमनादिविनाशी च ॥ २८ ॥
—o)0(o—
बहिरङ्गवैचित्रं तु अन्तरङ्गवैचित्रविकृतिः ॥२९॥
इति श्री आम्नायसूत्रे सम्बन्धतत्त्वनिरूपणे बहिरङ्गवैभवप्रकरणं समाप्तम् ।
मुण्डके ।
अस्मिन्द्योः पृथिवी चान्तरीक्षमोतं मनः सह प्राणैश्च सर्वैः तमेवैकं जानथः आत्मानमन्यावाचो विमुञ्चथ अमृतस्यैषः प्रभुः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥
भागवते (३.५.३७) ।
भूतानां नभऽदिनां यद्यद्भव्यावरावरम् ।
तेषां परानुसंसर्गात्यथा सङ्ख्यं गुणान्विदुः ॥
श्रीमन्महाप्रभु ।
यैछे सूर्येर स्थाने भासये आभास ।
सूर्य विना स्वतः तार ना हय प्रकाश ॥
विद्यपति ठाकुरेर अप्राकृत वृन्दावन वर्णन ।
बहिरङ्गप्राकृत वैचित्र इहार विकृति ।
नव वृन्दावन, नवीन तरूगण, नव नव विकशित फुल ।
नवीन वसन्त नवीन मलयानिल, मातल नव आलिकुल ॥
विहरै नौल किशोर कालिन्दि पुलिन, कुञ्ज नव शोभन,
नव नव प्रेम विभोर ।
नवीन रसाल, मुकुल मधु मातिया नव कोकिल कुल गाय ।
नवयुवतीगण, चित उमतायै नव रसे कानने धाय ॥
नव युव राज, नवीन नागरी मिलये नव नव भाति ।
निति निति ऐछन, नव नव खेलन विद्यापति मति माति इति ॥ २९ ॥
इति बहिरङ्गमाया वैभवप्रकरण भाष्यं समाप्तम् ।
Another revelation, Amnaya-Sutra (30 to 33). Check out the previous page too: Amnaya-Sutra (22 to 25). You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).And now listen to this sound >>
Harih Om Tat Sat.
Natural Brotherhood (Bhaktivinoda Thakura):
"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.
Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.
At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.
The living entities will not forget the principle of natural brotherhood."