Amnaya-Sutra (38 to 41)

Srila Bhaktivinoda Thakura

(From "श्रीमदाम्नायसूत्रम् (Amnaya-Sutra)" - click to read more from it.
You can also read the previous page: )

स्थूललिङ्गाभिमानजनितसंसारक्लेशाश्च ॥३८॥

कठे—

अविद्यायामन्तरे वर्तमानाः

स्वयं धीराः पण्डितं मन्यमानाः ।

दन्द्रम्यमानाः परियन्ति मूढः

अन्धेनैव नीयमाना यथान्धाः ॥ (१.२.५)

भागवते (३.३०.१४) ।

तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।

जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥

श्रीचैतन्यचरितामृते (२.२०.११७११८) ।

अत एव माया तारे देय संसारदुःख ।

कभु स्वर्गे उठाय कभु नरके डुबाय ।

दण्ड्यजनेर राजा येन नदीते चुबाय ॥ ३८ ॥

—o)0(o—
 

तत्साम्मुख्यात्सर्वक्लेशनिवृत्तिः स्वरूपप्राप्तिश्च ॥३९॥

श्वेताश्वतरे ।

ज्ञात्वा देवं सर्व पाशापहानिः

क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः ॥ (१.११)

मुण्डके ।

यदा पश्यः पश्यते रूक्मवर्णं

कर्तारमीशं पुरूषं ब्रह्मयोनिम् ।

तदा विद्वान्पुण्य पापे विधूय

निरञ्जनः परमं साम्यमुपैति ॥ (३.१.३)

श्रीविष्णुधर्मे ।

जन्मान्तरसहस्रेषु तपोज्ञानसमादिभिः ।

नरानां क्षीणपापानां कृष्णभक्ति प्रजायते ॥ (६८.११२)

भागवते (३.९.६) ।

तावद्भयं द्रविणदेहसुहृन्निमित्तं

शोकस्पृहा परिभवो विपुलश्च लोभा ।

तावन्ममेत्यसदवग्रह आर्तिमूलं

यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥

श्रीचैतन्यचरितामृते (२.२०.१२०) ।

साधु शास्त्र कृपाय यदि कृष्णोन्मुख हय ।

सेइ जीव तारे माया ताहारे छाडय ॥ ॥ ३९ ॥

—o)0(o—
 

अन्तरङ्गोपलब्धिस्तत्साम्मुख्यम् ॥४०॥

इति श्री आम्नायसूत्रे सम्बन्धतत्त्वनिरुपणे जीवतत्त्व प्रकरणं समाप्तं

कठे (१.३.१०१२) ।

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः ॥

महतः परमव्यक्तमव्यक्तात्पुरूषः परः ।

पुरूषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥

एष सर्वेषु भूतेषु गुडात्मान प्रकाशते ।

दृश्यते त्वाग्रषा बुद्ध्या सूक्ष्मदर्शिभिः ॥

भागवते—

आत्मतत्त्वावबोधेन वैराग्येन दमेन च ।

ईयते भगवानेभिः सुगुणो निर्गुणः स्व दृक॥ (३.३२.३६)

विलक्षण स्थूल सूक्ष्माद्देहादात्मेक्षिता स्वदृक।

यथाग्निर्दारूणो दाह्या दाह कोन्यः प्रकाशाकः ॥ (११.१०.७८)

श्री जीवः (भक्तिसन्दर्भ २१४) ।

साम्मुख्यं द्विविधं निर्विशेषमयं सविशेषमयं च ।

तत्र पूर्वं ज्ञानमुत्तरं तु द्विविधमहङ्ग्रहोपासनारूपं भक्तिरूपं च ॥

श्रीचैतन्यचरितामृते—

भ्रमिते भ्रमिते यदि साधु वैद्य पाय ।

ताङ्र उपदेशं मन्त्रे पिशाची पालाय ।

कृष्णभक्ति पाय तबे कृष्ण निकटे याय ॥ (२.२२.१४१५) ॥ ४० ॥

इति जीवतत्त्व प्रकरण भाष्यं समाप्तं

श्री कृष्णचैतन्यार्पणमस्तु ।

—o)0(o—
 

जीवगतिप्रकरणं

संसारदशाश्चतस्रः ॥४१॥

बृहदारण्यके—

तस्मिन्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च एष पथा ब्रह्मणा हानुवृत्तेः ॥ (४.४.९)

भागवते—

अदन्ति चैकं फलमस्य

गृध्रा ग्रामे चरा एकमरण्यवासाः ।

हंसा य एकं बहुरूपमिज्येर्

मायामयं वेद स देववेदम् ॥ (११.१२.२३)

श्रीचैतन्यचरितामृते—

ऐछे शास्त्र कहे कर्म ज्ञान यो ग त्यजि ।

भक्त्ये कृष्ण वश हन भक्त्ये तार भजि ॥ (२.२०.१३६) ॥ ४१ ॥

Another revelation, . Check out the previous page too: . You will benefit from reading the whole work: श्रीमदाम्नायसूत्रम् (Amnaya-Sutra).

And now listen to this sound >>

Harih Om Tat Sat.

Natural Brotherhood (Bhaktivinoda Thakura):

BhaktiVinoda Thakura

"Gradually, when the offensive portions of the established religions are destroyed, there will be no more differences in the bhajana performed by the various Sampradayas nor any quarrel between them.

Then as brothers, the people of all castes and countries will spontaneously chant the Holy Names of the Supreme Lord together.

At that time, no one will hate anyone or consider others dogeaters; nor will anyone be overwhelmed by the pride of high birth.

The living entities will not forget the principle of natural brotherhood."


Tell your friends about this spiritual site: